वर्णानामर्थसङ्घानां
रसानां छन्दसामपि ।
मङ्गलानां च कर्त्तारौ
वन्दे वाणीविनायकौ ॥
भवानीशङ्करौ वन्दे
श्रद्धाविश्वासरूपिणौ ।
याभ्यां विना न पश्यन्ति
सिद्धाः स्वान्तःस्थमीश्वरम् ॥
वन्दे बोधमयं नित्यं
गुरुं शङ्कररूपिणम् ।
यमाश्रितो हि वक्रोऽपि
चन्द्रः सर्वत्र वन्द्यते ॥
सीतारामगुणग्राम-
पुण्यारण्यविहारिणौ ।
वन्दे विशुद्धविज्ञानौ
कवीश्वरकपीश्वरौ ॥
उद्भवस्थितिसंहारकारिणीं
क्लेशहारिणीम् ।
सर्वश्रेयस्करीं सीतां
नतोऽहं रामवल्लभाम् ॥
यन्मायावशवर्त्तिविश्वमखिलं
ब्रह्मादिदेवाः सुरा
यत्सत्त्वादमृषैव भाति सकलं
रज्जौ यथाऽहेर्भ्रमः ।
यत्पादप्लव एक एव हि भवाम्–
भोधेस्तितीर्षावतां
वन्देऽहं तमशेषकारणपरं
रामाख्यमीशं हरिम् ॥